Matsya Stuti – भगवान विष्णु को प्रसन्न करने के लिये करें मत्स्यस्तुतिः का पाठ
Matsya Stutiमत्स्य स्तुतिः ॥ मत्स्यस्तुतिः ॥ मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दौअन्तर्लीने जलधिसलिले व्याकुले देवलोके ।मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवार्धिश्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु ॥ वियत्पुच्छातुच्छोच्छलितजलगर्भं निधिरपांअपान्नाथः पाथः पृथुललवदुस्थो वियदभूत् ।निधिर्भासामौर्वो दिनपतिरभूदौर्वदहनःचलत्काये यस्मिन्स जयति हरिर्मीनवपुषा ॥ जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटनात्उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः ।यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं वपुःपानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ दिश्याद्वः शकुलाकृतिः स भगवान्नैःश्रेयसीं सम्पदंयस्य स्फूर्जदतुच्छपुच्छशिखरप्रेङ्खोलनक्रीडनैः ।विष्वग्वार्धिसमुच्छलज्जलभरैर्मन्दाकिनीसङ्गतैःगङ्गासागरसङ्गमप्रणयिनी जाता विहायःस्थली ॥ … Continue reading Matsya Stuti – भगवान विष्णु को प्रसन्न करने के लिये करें मत्स्यस्तुतिः का पाठ
Copy and paste this URL into your WordPress site to embed
Copy and paste this code into your site to embed