गजेन्द्रमोक्ष स्तोत्र (Gajendramoksha Stotra)

श्रीशुक उवाच
एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि ।
जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥
गजेन्द्र उवाच
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभीधीमहि ॥
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात्परस्माच्च परस्तं प्रपद्दे स्वयंभुवम् ॥
यः स्वात्मनीदं निजमाययार्पितम् क्वचिद्विभांतं क्व च तत्तिरोहितम् ।
अविद्धदृक् साक्ष्युभयम तदीक्षते सआत्ममूलोऽवतु मां परात्पतरः ॥
कालेन पंचत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदाऽऽसीद् गहनं गभीरम् यस्तस्य पारेऽभिविराजते विभुः ॥
न यस्य देवा ऋषयः पदं विदुः जन्तुः पुनः कोऽर्हति गंतुमीरितुम् ।
यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ॥
दिदृक्षवो यस्य पदं सुमंगलम् विमुक्तसंगा मुनयः सुसाधवः ।
चरंत्यलोकव्रतमव्रणं वने भूतात्मभूतः सुह्रदः स मे गतिः ॥
न विद्यते यस्य च जन्म कर्म वा न नामरुपे गुणदोष एव वा ।
तथापि लोकाप्ययसंभवाय यः स्वमायया तान्यनुकालमृच्छति ॥
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।
अरुपायोरुरुपाय नम आश्र्चर्य कर्मणे ॥
नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्र्चिता ।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥
नमः शांताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥
सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नमः ॥
नमो नमस्तेऽखिल कारणाय निष्कारणायाद्भुत कारणाय ।
सर्वागमाम्नायमहार्णवाय नमोऽपवर्गाय परायणाय ॥
गुणारणिच्छन्नचिदूष्मपाय तत्क्षोभविस्फूर्जितमानसाय ।
नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस्करोमि ॥
मादक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमोऽलयाय ।
स्वांशेन सर्वतनुभून्मनसि प्रतीतप्रत्यग्दृशे भगवते बृहते नमस्ते ॥
आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर्दुष्प्रापणाय गुणसंगविवर्जिताय ।
मुक्तात्मभिः स्वहदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ॥
यंधर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुरवन्ति ।
कि त्वाशिषो रात्यपि देहमव्ययं करोतु मेऽदभदयो विमोक्षणम् ॥
एकान्तिनो यस्य न कञ्चनार्थ वाञ्छन्ति ये वै भगवत्प्रपन्नाः ।
अत्यद्भुतं तच्चरितं सुमंगलं गायन्त आनन्दसमुद्रमग्नाः ॥
तमक्षरं ब्रह्म परं परेशमव्यक्तमाध्यात्मिकयोगगम्यम् ।
अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे ॥
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः।
नामरुपविभेदेन फलव्या च कलया कृताः ॥
यथार्चिषोऽग्नेः सवितुर्गभस्तयों निर्यान्ति संयान्त्यसकृत् स्वरोचिषः ।
तथा यतोऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ॥
स वै न देवासुरमत्त्यतिर्यङ न स्त्री न षण्ढो न पुमान् न जन्तुः।
नायं गुणः कर्म न सन्न चासन् निषेधशेषो जयतादशेषः ॥
जिजीविषे नाहमिहामुया किमन्तर्बहिश्चयावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् ॥
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् ।
विश्वात्मानमज ब्रह्म प्रणतोऽस्मि पर पदम् ॥
योगरंधितकर्माणो ह्रदि योगविभाविते ।
योगिनो यं प्रपश्यति योगेशं तं नतोऽस्म्यहम् ॥
नमो नमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ॥
नायं वेद स्वमात्मानं यच्छक्त्याहं धिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवंतमितोऽस्म्यहम् ॥
श्रीशुक उवाच
एवं गजेन्द्र मुपवर्णितनिर्विशेषम् ब्रह्मादयो विविधलिंग भिदाभिमानाः ।
नैते यदोपससृपुनिंखिलात्मकत्वात् तत्राखिलामरमयो हरिराविरासीत् ॥
तं तद्वदार्तमुपलभ्य जगन्निवासः स्तोत्रं निशम्य दिविजै सह संस्तुवद्भिः ।
छंदोमयेन गरुडेन समुह्यमानशचक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥
सोऽन्तः सरस्युरुबलेन गृहीत आर्तो दृष्टवा गरुत्मति हरिं ख उपात्तचक्रम् ।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रात् नारायणाखिलगुरो भगवन् नमस्ते ॥
तं वीक्ष्य पीडितमजः सहसावतीर्य सग्राहमाशु सरसः कृपायोज्जहार ।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रम् संपश्यतां हरिरमूमुचदुस्त्रियाणाम् ॥
योऽसौ ग्राहः स वै सद्यः परमाश्र्चर्य रुपधृक् मुक्तो देवलशापेन हुहु-गनधर्व सत्तमः ।।
सोऽनुकंपित ईशेन परिक्रम्य प्रणम्य तम् लोकस्य पश्यतो लोकं स्वमगान्मुक्त-किल्बिषः ॥
गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबंधनात् प्राप्तो भगवतो रुपं पीतवासाश्र्चतुर्भुजः ॥
एवं विमोक्ष्य गजयुथपमब्जनाभःस्तेनापि पार्षदगति गमितेन युक्तः ॥
गंधर्वसिद्धविबुधैरुपगीयमान-कर्माभ्दुतं स्वभवनं गरुडासनोऽगात् ॥