श्री राधानाम महात्म्य स्तोत्र (Shri Radhanaam Mahatamya Stotra)

रेफो हि कोटी जन्माघं कर्मभोगं शुभाशुभम् ।
आकारो गर्भवासं च मृत्युं च रोगमुत्सृजेत् ॥
धकार आयुषो हानिमाकारो भवबन्धनम् ।
श्रवणस्मरणोक्तिभ्यः प्रणश्यति न संशयः ॥
रेफ़ो हि निश्चलां भक्तिं दास्यं कृष्णपदाम्बुजे ।
सर्वेप्सितं सदानन्दं सर्वसिद्धौघमीश्वरम् ॥
धकारः सहवासं च तत्तुल्यकालमेव च ।
ददाति सार्ष्टिसारूप्यं तत्त्वज्ञानं हरेः समम् ॥
आकरस्तेजसां राशिं दानशक्तिं हरौ यथा ।
योगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् ॥
श्रुत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् ।
रोगशोक मृत्युयमा वेपन्ते नात्र संशयः ॥
॥ इति श्री राधा नाम महात्म्य स्तोत्र संपूर्णं ॥