श्रीराधाया परिहार स्तोत्र (Shri Radhaya Parihar stotra)

Radhaya parihar stotra

त्वं देवी जगतां माता विष्णुमाया सनातनी ।
कृष्णप्राणाधिदेवी च कृष्णप्राणाधिका शुभा ॥ १ ॥
कृष्णप्रेममयी शक्तिः कृष्णसौभाग्यरुपिणी ।
कृष्णभक्तिप्रदे राधे नमस्ते मङगलप्रदे ॥ २ ॥
अद्य मे सफलं जन्म जीवनं सार्थकं मम ।
पूजितासि मया सा च या श्रीकृष्णेन पूजिता ॥ ३ ॥
कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता ।
रासे रासेश्र्वरीरुपा वृन्दा वृन्दावने वने ॥ ४ ॥
कृष्णप्रिया च गोलोके तुलसी कानने तु या ।
चम्पावती कृष्णसंगे क्रीडा चम्पककानने ॥ ५ ॥
चन्द्रावली चन्द्रवने शतश्रृंङगे सतीति च ।
विरजादर्पहन्त्री च विरजातटकानने ॥ ६ ॥
पद्मावती पद्मवने कृष्णा कृष्णसरोवरे ।
भद्रा कुञ्जकुटीरे च काम्या च काम्यके वने ॥ ७ ॥
वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि ।
क्षीरोदे सिन्धुकन्या च मर्त्ये लक्ष्मीर्हरिप्रिया ॥ ८ ॥
सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी ।
सनातनी विष्णुमाया दुर्गा शंकरवक्षसि ॥ ९ ॥
सावित्री वेदमाता च कलया ब्रह्मवक्षसि ।
कलया धर्मपत्नी त्वं नरनारायणप्रसूः ॥ १० ॥
कलया तुलसी त्वं च गङगा भुवनपावनी ।
लोमकुपोद्भवा गोप्यः कलांशा रोहिणी रतिः ॥ ११ ॥
कलाकलांशरुपा च शतरुपा शची दितिः ।
अदितिर्देवमाता च त्वत्कलांशा हरिप्रिया ॥ १२ ॥
देव्यश्र्च मुनिपत्न्यश्र्च त्वत्कलाकलया शुभे ।
कृष्णभक्तिं कृष्णदास्यं देहि मे कृष्णपूजिते ॥ १३ ॥
एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत् ।
पुरा कृतं स्तोत्रमेतद् भक्तिदास्यप्रदं शुभम् ॥ १४ ॥
॥ इति श्रीब्रह्मवैवर्ते श्रीराधायाः परीहारस्तोत्रं संपूर्णम् ॥