Sudarshana Sahasranama Stotram: समग्र नकारात्मकता को दूर करने वाला है श्री सुदर्शन सहस्रनाम स्तोत्रम्

Image for Sudarshana Sahasranama; Sudarshana Sahasranamam; Sudarshana Sahasranama; Lord Sudarshana;

सुदर्शन सहस्रनाम स्तोत्रम् (Sudarshana Sahasranama Stotram) समस्त इच्छाओं को पूरा करने वाला बहुत ही दुर्लभ और दिव्य स्तोत्र है। इस स्तोत्र का नियमित रूप से पाठ करने वाले विद्वान व्यक्ति की उपलब्धियों की कहानियाँ कई और सुनी जाती है। उनकी सफलता से उनकी यश और कीर्ति बढ़ती है। जानियें इस रहस्मयी गुप्त स्तोत्र का पाठ कब और कैसे करना चहिये और इस श्री सुदर्शन सहस्रनाम स्तोत्रम् (Sri Sudarshana Sahasranama Stotram) का पाठ करने से क्या लाभ होता है?

When and How To Recite Sudarshana Sahasranamam Stotram?
कब और कैसे करें सुदर्शन सहस्रनाम स्तोत्रम् का पाठ?

सुबह, शाम या रात्रि के समय कभी इस सुदर्शन सहस्रनाम स्तोत्रम् (Sudarshana Sahasranama Stotram) का पाठ किया जा सकता है। खड़े होकर या बैठकर अपनी सुविधा के अनुसार दिन में जितनी बार चाहे इसका पाठ कर सकते हैं। प्रात:काल स्नानादि नित्य क्रिया से निवृत्त होकर स्वच्छ वस्त्र धारण करें। पूर्ण श्रद्धा-भक्ति के साथ शुद्ध अंत:करण से सुदर्शन सहस्रनाम स्तोत्रम् (Sudarshana Sahasranama Stotram) का पाठ करें। उच्चारण शुद्ध हो इस बात का ध्यान रखें। पाठ पूर्ण होने के बाद भगवान सुदर्शन से अपनी गलतियों के लिये क्षमा माँगें। और फिर उनसे अपना मनोरथ कहें।

अत्यंत प्रभावशाली श्री राम भुजङ्ग प्रयात स्तोत्रम् (Sri Rama Bhujanga Prayata Stotram) और इसके नित्य पाठ के लाभ के विषय में जानने के लिये यहाँ क्लिक करें…

Benefits of Reciting Sudarshana Sahasranama Stotram
श्री सुदर्शन सहस्रनाम स्तोत्रम् के लाभ

इस दिव्य और चमत्कारिक सुदर्शन सहस्रनाम स्तोत्रम् (Sudarshana Sahasranama Stotram) का नियमित पाठ करने से

  • हर इच्छा पूर्ण होती है।
  • लक्ष्य प्राप्ति में सफलता प्राप्त होती है।
  • समाज में मान-सम्मान बढ़ता है।
  • बड़े से बड़े पाप और श्राप से मुक्ति मिलती है।
  • शत्रुओं का नाश होता है। साधक हर स्थान और परिस्थिति में सुरक्षित रहता है। नकारात्मक शक्तियों का नाश होता है और जीवन में सकारात्मकता आती है।
  • मोहमाया के बन्धनों से मुक्त होता है।
  • हर प्रकार के कलंक और बुराई से बचाव होता है। रोग-दोष का नाश होता है। अपार धन-सम्पदा की प्राप्ति होती है। जीवन सुखमय होता है।

Sri Sudarshana Sahasranama Stotram Lyrics

॥ श्री सुदर्शन सहस्रनाम स्तोत्रम् ॥

श्री गणेशाय नमः ॥

श्रीसुदर्शन परब्रह्मणे नमः ॥

अथ श्रीसुदर्शन सहस्रनाम स्तोत्रम् ॥

कैलासशिखरे रम्ये मुक्तामाणिक्यमण्डपे ।
रत्नसिंहासनासीनं प्रमथैः परिवारितम् ॥ १ ॥

भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ।
बद्धाञ्जलिपुटा भूत्वा पप्रच्छ विनयान्विता ॥ २ ॥

पार्वत्युवाच ।

यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् ।
सौदर्शनमृते शास्त्रं नास्ति चान्यदिति प्रभो ॥ ३ ॥

तत्र काचिद्विवक्षास्ति तमर्थं प्रति मे प्रभो ।
एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥ ४ ॥

अहिर्बुद्ध्न्य उवाच ।

संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने ।
इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ।
पुनर्होवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥ ५ ॥

पार्वत्युवाच ।

लोके सौदर्शनं मन्त्रं यन्त्रं तत्तत् प्रयोगवत् ।
सर्वं विज्ञातुमप्यत्र यथावत्समनुष्ठितुम् ॥ ६ ॥

अतिवेलमशक्तानां तन्मार्गं भृशमिच्छताम् ।
को मार्गः का गतिस्तेषां कार्यसिद्धिः कथं भवेत् ।
एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेदमुम् ॥ ७ ॥

अहिर्बुद्ध्न्य उवाच ।

अहं ते कथयिष्यामि सर्वसिद्धिकरं शुभम् ।
अनायासेन यज्जप्त्वा नरः सिद्धिमवाप्नुयात् ॥ ८ ॥

तच्च सौदर्शनं गुह्यं दिव्यं नामसहस्रकम् ।
नियमात्पठतां नॄणां चिन्तितार्थप्रदायकम् ॥ ९ ॥

तस्य नामसहस्रस्य सोऽहमेवर्षिरीरितः ।
छन्दोऽनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥ १० ॥

स्रां बीजं ह्रीं तु शक्तिः स्यात् श्रीं कीलकमुदाहृतम् ।
समस्ताभीष्टसिद्ध्यर्थे विनियोग उदाहृतः ।
शङ्खं चक्रं च चापादि ध्यानमस्य समीरितम् ॥ ११ ॥

अथ ध्यानम् ।

शङ्खं चक्रं च चापं परशुमसिमिषुं शूलपाशाङ्कुशाग्निं
बिभ्राणं वज्रखेटौ हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिणेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्यायेत् षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥

अथ स्तोत्रम् ।

श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः ।
श्रीमदान्ध्यहरः श्रीमान् श्रीवत्सकृतलक्षणः ॥ १ ॥
श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मीकरपूजितः ।
श्रीरतः श्रीविभुः सिन्धुकन्यापतिरधोक्षजः ॥ २ ॥
अच्युतश्चाम्बुजग्रीवः सहस्रारः सनातनः ।
समर्चितो वेदमूर्तिः समतीतसुराग्रजः ॥ ३ ॥
षट्कोणमध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः ।
चण्डवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥ ४ ॥
शाश्वतः सकलः श्यामः श्यामलः शकटार्दनः ।
दैत्यारिः शारदःस्कन्धः शकटाक्षः शिरीषकः ॥ ५ ॥
शरभारिर्भक्तवश्यः शशाङ्को वामनोऽव्ययः ।
वरूथिवारिजः कञ्जलोचनो वसुधाधिपः ॥ ६ ॥
वरेण्यो वाहनोऽनन्तः चक्रपाणिर्गदाग्रजः ।
गभीरो गोलवाधीशो गदापाणिः सुलोचनः ॥ ७ ॥
सहस्राक्षश्चतुर्बाहुः शङ्खचक्रगदाधरः ।
भीषणो भीतिदो भद्रो भीमोऽभीष्टफलप्रदः ॥ ८ ॥
भीमार्चितो भीमसेनो भानुवंशप्रकाशकः ।
प्रह्लादवरदः फाललोचनो लोकपूजितः ॥ ९ ॥
उत्तरामानदो मानी मानवाभीष्टसिद्धिदः ।
भक्तपालः पापहारी फलदो दहनध्वजः ॥ १० ॥

अरीशः कनको धाता कामपालः पुरातनः ।
अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलाधिपः ॥ ११ ॥
क्रूरकर्मा क्रूररूपी क्रूरहारी कुशेशयः ।
मन्दरो मानिनीकान्तो मधुहा माधवप्रियः ॥ १२ ॥
सुप्रतप्तस्वर्णरूपी बाणासुरभुजान्तकृत् ।
धराधरो दानवारिः दनुजेन्द्रारिपूजितः ॥ १३ ॥
भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः ।
सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥ १४ ॥
वसुन्धरो वायुवेगो वराहो वरुणालयः ।
प्रणतार्तिहरः श्रेष्ठः शरण्यः पापनाशनः ॥ १५ ॥
पावको वारणाद्रीशो वैकुण्ठो वीतकल्मषः ।
वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः ॥ १६ ॥
निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिभावनः ।
नीरूपो नारदनुतो नकुलाचलवासकृत् ॥ १७ ॥
नित्यानन्दो बृहद्भानुः बृहदीशः पुरातनः ।
निधीनामधिपोऽनन्तः नरकार्णवतारकः ॥ १८ ॥
अगाधोऽविरलोऽमर्त्यो ज्वालाकेशः खगार्चितः ।
तरुणस्तनुकृद्रक्तः परमश्चित्तसम्भवः ॥ १९ ॥
चिन्त्यः सत्यनिधिः साग्रश्चिदानन्दः शिवप्रियः ।
शिंशुमारः शतमखः शातकुम्भनिभप्रभः ॥ २० ॥

भोक्तारुणेशो बलवान् बालग्रहनिवारकः ।
सर्वारिष्टप्रशमनो महाभयनिवारकः ॥ २१ ॥
बन्धुः सुबन्धुः सुप्रीतः सन्तुष्टः सुरसन्नुतः ।
बीजकेश्यो भगो भानुः अमितार्चिरपां पतिः ॥ २२ ॥
सुयज्ञो ज्योतिषः शान्तो विरूपाक्षः सुरेश्वरः ।
वह्निप्राकारसंवीतो रत्नगर्भः प्रभाकरः ॥ २३ ॥
सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ।
महासुरशिरश्छेता पाकशासनवन्दितः ॥ २४ ॥
शतमूर्तिः सहस्रारिः हिरण्यज्योतिरव्ययः ।
मण्डली मण्डलाकारः चन्द्रसूर्याग्निलोचनः ॥ २५ ॥
प्रभञ्जनस्तीक्ष्णधारः प्रशान्तः शारदप्रियः ।
भक्षप्रियो बलिहरो लावण्यो लक्षणप्रियः ॥ २६ ॥
विमलो दुर्लभः सौम्यः सुलभो भीमविक्रमः ।
जितमन्युर्जितारातिः महाक्षो भृगुपूजितः ॥ २७ ॥
तत्त्वरूपस्तत्त्ववेदी सर्वतत्त्वप्रतिष्ठितः ।
भावज्ञो बन्धुजनको दीनबन्धुः पुराणवित् ॥ २८ ॥
शस्त्रेशो निर्मदो नेता नरो नानासुरप्रियः ।
नाभिचक्रो नतामित्रो नदीशकरपूजितः ॥ २९ ॥
दमनः कालिकः कर्मी कान्तः कालार्दनः कविः ।
कमनीयकृतिः कालः कमलासनसेवितः ॥ ३० ॥

कृपालुः कपिलः कामी कामितार्थप्रदायकः ।
धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः ॥ ३१ ॥
धातानन्दमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ।
सर्वयज्ञमयो यज्ञो यज्ञभुग्यज्ञभावनः ॥ ३२ ॥
ज्वालाजिह्मः शिखामौलिः सुरकार्यप्रवर्तकः ।
कलाधारः सुरारिघ्नः कोपहा कालरूपभृत् ॥ ३३ ॥
वह्निध्वजो वह्निसखो वञ्जुलद्रुममूलगः ।
दक्षहा दानकारी च नरो नारायणप्रियः ॥ ३४ ॥
दैत्यदण्डधरो दान्तः शुभ्राङ्गः शुभदायकः ।
लोहिताक्षो महारौद्रो मायारूपधरः खगः ॥ ३५ ॥
उन्नतो भानुजः साङ्गो महाचक्रः पराक्रमी ।
अग्नीशोऽग्निमयस्त्वग्निलोचनोऽग्निसमप्रभः ॥ ३६ ॥
अग्निवानग्निरसनो युद्धसेवी रविप्रियः ।
आश्रिताघौघविध्वंसी नित्यानन्दप्रदायकः ॥ ३७ ॥
असुरघ्नो महाबाहुः भीमकर्मा शुभप्रदः ।
शशाङ्कप्रणवाधारः समस्ताशीविषापहः ॥ ३८ ॥
अर्को वितर्को विमलो बिलगो बादरायणः ।
बधिरघ्नश्चक्रवालः षट्कोणान्तर्गतः शिखी ॥ ३९ ॥
धृढधन्वा षोडशाक्षो दीर्घबाहुर्दरीमुखः ।
प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः ॥ ४० ॥

नरभेदी सिंहरूपी पुराधीशः पुरन्दरः ।
रविस्तुतो यूथपालो युथपारिः सतां गतिः ॥ ४१ ॥
हृषीकेशो द्वित्रिमूर्तिः द्विरष्टायुधभृद्वरः ।
दिवाकरो निशानाथो दिलीपार्चितविग्रहः ॥ ४२ ॥
धन्वन्तरिः श्यामलारिः भक्तशोकविनाशकः ।
रिपुप्राणहरो जेता शूरश्चातुर्यविग्रहः ॥ ४३ ॥
विधाता सच्चिदानन्दः सर्वदुष्टनिवारकः ।
उल्को महोल्को रक्तोल्कः सहस्रोल्कः शतार्चिषः ॥ ४४ ॥
बुद्धो बौद्धहरो बौद्धजनमोहो बुधाश्रयः ।
पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः ॥ ४५ ॥
पूर्णमन्त्रः पूर्णगात्रः पूर्णः षाड्गुण्यविग्रहः ।
पूर्णनेमिः पूर्णनाभिः पूर्णाशी पूर्णमानसः ॥ ४६ ॥
पूर्णसारः पूर्णशक्तिः रङ्गसेवी रणप्रियः ।
पूरिताशोऽरिष्टतातिः पूर्णार्थः पूर्णभूषणः ॥ ४७ ॥
पद्मगर्भः पारिजातः परमित्रः शराकृतिः ।
भूभृद्वपुः पुण्यमूर्तिः भूभृतां पतिराशुगः ॥ ४८ ॥
भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ।
गविष्ठो गजमानी च गमनागमनप्रियः ॥ ४९ ॥
ब्रह्मचारी बन्धुमानी सुप्रतीकः सुविक्रमः ।
शङ्कराभीष्टदो भव्यः साचिव्यः सव्यलक्षणः ॥ ५० ॥

महाहंसः सुखकरो नाभागतनयार्चितः ।
कोटिसूर्यप्रभो दीप्तिः विद्युत्कोटिसमप्रभः ॥ ५१ ॥
वज्रकल्पो वज्रसारो वज्रनिर्घातनिस्वनः ।
गिरीशमानदो मान्यो नारायणकरालयः ॥ ५२ ॥
अनिरुद्धः परामर्षी उपेन्द्रः पूर्णविग्रहः ।
आयुधेशः शतारिघ्नः शमनः शतसैनिकः ॥ ५३ ॥
सर्वासुरवधोद्युक्तः सूर्यदुर्मानभेदकः ।
राहुविप्लोषकारी च काशीनगरदाहकः ॥ ५४ ॥
पीयूषांशुः परं ज्योतिः सम्पूर्णः क्रतुभुक्प्रियः ।
मान्धातृवरदः शुद्धो हरसेव्यः शचीष्टदः ॥ ५५ ॥
सहिष्णुः बलभुग्वीरो लोकभृल्लोकनायकः ।
दुर्वासमुनिदर्पघ्नो जयदो विजयप्रियः ॥ ५६ ॥
सुराधीशोऽसुरारातिः गोविन्दकरभूषणः ।
रथरूपी रथाधीशः कालचक्रः कृपानिधिः ॥ ५७ ॥
चक्ररूपधरो विष्णुः स्थूलसूक्ष्मः शिखिप्रभः ।
शरणागतसन्त्राता वेतालारिर्महाबलः ॥ ५८ ॥
ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ।
विद्युत्केशो विहारेशः पद्मयोनिश्चतुर्भुजः ॥ ५९ ॥
कामात्मा कामदः कामी कालनेमिशिरोहरः ।
शुभ्रः शुचिः शुनासीरः शुक्रमित्रः शुभाननः ॥ ६० ॥

वृषकायो वृषारातिः वृषभेन्द्रः सुपूजितः ।
विश्वम्भरो वीतिहोत्रो वीर्यो विश्वजनप्रियः ॥ ६१ ॥
विश्वकृद्विश्वपो विश्वहर्ता साहसकर्मकृत् ।
बाणबाहुहरो ज्योतिः परात्मा शोकनाशनः ॥ ६२ ॥
विमलाधिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ।
म्लेच्छप्रहारी दुष्टघ्नः सूर्यमण्डलमध्यगः ॥ ६३ ॥
दिगम्बरो वृषाद्रीशो विविधायुधरूपकः ।
सत्ववान् सत्यवागीशः सत्यधर्मपरायणः ॥ ६४ ॥
रुद्रप्रीतिकरो रुद्रवरदो रुग्विभेदकः ।
नारायणो नक्रभेदी गजेन्द्रपरिमोक्षकः ॥ ६५ ॥
धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ।
गदामित्रः पृथुभुजो रसातलविभेदकः ॥ ६६ ॥
तमोवैरी महातेजाः महाराजो महातपाः ।
समस्तारिहरः शान्तः क्रूरो योगेश्वरेश्वरः ॥ ६७ ॥
स्थविरः स्वर्णवर्णाङ्गः शत्रुसैन्यविनाशकृत् ।
प्राज्ञो विश्वतनुत्राता श्रुतिस्मृतिमयः कृती ॥ ६८ ॥
व्यक्ताव्यक्तस्वरूपोंसः कालचक्रः कलानिधिः ।
महाद्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः ॥ ६९ ॥
महास्फुलिङ्गधारार्चिः महायुद्धकृदच्युतः ।
कृतज्ञः सहनो वाग्मी ज्वालामालाविभूषकः ॥ ७० ॥

चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ।
चातुर्यगमनश्चक्री चतुर्वर्गप्रदायकः ॥ ७१ ॥
विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ।
युगकृद्युगपालश्च युगसन्धिर्युगान्तकृत् ॥ ७२ ॥
सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ।
त्रिणेत्रस्त्रिजगद्वन्द्यः तृणीकृतमहासुरः ॥ ७३ ॥
त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिस्त्रिजगत्प्रभुः ।
सर्वमन्त्रमयो मन्त्रः सर्वशत्रुनिबर्हणः ॥ ७४ ॥
सर्वगः सर्ववित्सौम्यः सर्वलोकहितङ्करः ।
आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः ॥ ७५ ॥
ध्यानगम्यः कल्मषघ्नः कलिगर्वप्रभेदकः ।
कमनीयतनुत्राणः कुण्डली मण्डिताननः ॥ ७६ ॥
सुकुण्ठीकृतचण्डेशः सुसन्त्रस्थषडाननः ।
विषाधीकृतविघ्नेशो विगतानन्दनन्दिकः ॥ ७७ ॥
मथितप्रमथव्यूहः प्रणतप्रमथाधिपः ।
प्राणभिक्षाप्रदोऽनन्तो लोकसाक्षी महास्वनः ॥ ७८ ॥
मेधावी शाश्वतोऽक्रूरः क्रूरकर्माऽपराजितः ।
अरी दृष्टोऽप्रमेयात्मा सुन्दरः शत्रुतापनः ॥ ७९ ॥
योगयोगीश्वराधीशो भक्ताभीष्टप्रपूरकः ।
सर्वकामप्रदोऽचिन्त्यः शुभाङ्गः कुलवर्धनः ॥ ८० ॥

निर्विकारोऽनन्तरूपो नरनारायणप्रियः ।
मन्त्रयन्त्रस्वरूपात्मा परमन्त्रप्रभेदकः ॥ ८१ ॥
भूतवेतालविध्वंसी चण्डकूश्माण्डखण्डनः ।
शकलीकृतमारीचो भैरवग्रहभेदकः ॥ ८२ ॥
चूर्णीकृतमहाभूतः कबलीकृतदुर्ग्रहः ।
सुदुर्ग्रहो जम्भभेदी सूचीमुखनिषूदनः ॥ ८३ ॥
वृकोदरबलोद्धर्ता पुरन्दरबलानुगः ।
अप्रमेयबलः स्वामी भक्तप्रीतिविवर्धनः ॥ ८४ ॥
महाभूतेश्वरः शूरो नित्यः शारदविग्रहः ।
धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकः शिवः ॥ ८५ ॥
विधूमज्वलनो भानुर्भानुमान् भास्वतां पतिः ।
जगन्मोहनपाटीरः सर्वोपद्रवशोधकः ॥ ८६ ॥
कुलिशाभरणो ज्वालावृतः सौभाग्यवर्धनः ।
ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥ ८७ ॥
सन्तापनो वज्रसारः सुमेधाऽमृतसागरः ।
सन्तानपञ्जरो बाणताटङ्को वज्रमालिकः ॥ ८८ ॥
मेखलाग्निशिखो वज्रपञ्जरः ससुराङ्कुशः ।
सर्वरोगप्रशमनो गान्धर्वविशिखाकृतिः ॥ ८९ ॥
प्रमोहमण्डलो भूतग्रहशृङ्खलकर्मकृत् ।
कलावृतो महाशङ्कुदारणः शल्यचन्द्रिकः ॥ ९० ॥

चेतनोत्तारकः शल्यक्षुद्रोन्मूलनतत्परः ।
बन्धनावरणः शल्यकृन्तनो वज्रकीलकः ॥ ९१ ॥
प्रतीकबन्धनो ज्वालामण्डलः शस्त्रदारकः ।
इन्द्राक्षिमालिकः कृत्यादण्डश्चित्तप्रभेदकः ॥ ९२ ॥
ग्रहवागुरिकः सर्वबन्धनो वज्रभेदकः ।
लघुसन्तानसङ्कल्पो बद्धग्रहविमोचनः ॥ ९३ ॥
मौलिकाञ्चनसन्धाता विपक्षमतभेदकः ।
दिग्बन्धनकरः सूचीमुखाग्निश्चित्तबन्धकः ॥ ९४ ॥
चोराग्निमण्डलाकारः परकङ्कालमर्दनः ।
तान्त्रिकः शत्रुवंशघ्नो नानानिगलमोचकः ॥ ९५ ॥
समस्तलोकसारङ्गः सुमहाविषदूषणः ।
सुमहामेरुकोदण्डः सर्ववश्यकरेश्वरः ॥ ९६ ॥
निखिलाकर्षणपटुः सर्वसम्मोहकर्मकृत् ।
संस्तम्भनकरः सर्वभूतोच्चाटनतत्परः ॥ ९७ ॥
यक्षरक्षोगणध्वंसी महाकृत्याप्रदाहकः ।
अहितामयकारी च द्विषन्मारणकारकः ॥ ९८ ॥
एकायनगतामित्रविद्वेषणपरायणः ।
सर्वार्थसिद्धिदो दाता विधाता विश्वपालकः ॥ ९९ ॥
विरूपाक्षो महावक्षाः वरिष्ठो माधवप्रियः ।
अमित्रकर्शनः शान्तः प्रशान्तः प्रणतार्तिहा ॥ १०० ॥

रमणीयो रणोत्साहो रक्ताक्षो रणपण्डितः ।
रणान्तकृद्रथाकारो रथाङ्गो रविपूजितः ॥ १०१ ॥
वीरहा विविधाकारः वरुणाराधितो वशी ।
सर्वशत्रुवधाकाङ्क्षी शक्तिमान् भक्तमानदः ॥ १०२ ॥
सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः ।
पुराणः पुण्डरीकाक्षः परमर्मप्रभेदकः ॥ १०३ ॥
वीरासनगतो वर्मी सर्वाधारो निरङ्कुशः ।
जगद्रक्षो जगन्मूर्तिः जगदानन्दवर्धनः ॥ १०४ ॥
शारदः शकटारातिः शङ्करः शकटाकृतिः ।
विरक्तो रक्तवर्णाढ्यो रामसायकरूपभृत् ॥ १०५ ॥
महावराहदंष्ट्रात्मा नृसिंहनखरात्मकः ।
समदृङ्मोक्षदो वन्द्यो विहारी वीतकल्मषः ॥ १०६ ॥
गम्भीरो गर्भगो गोप्ता गभस्ती गुह्यको गुरुः ।
श्रीधरः श्रीरतः श्रान्तः शत्रुघ्नः शत्रुगोचरः ॥ १०७ ॥
पुराणो विततो वीरः पवित्रश्चरणाह्वयः ।
महाधीरो महावीर्यो महाबलपराक्रमः ॥ १०८ ॥
सुविग्रहो विग्रहघ्नः सुमानी मानदायकः ।
मायी मायापहो मन्त्री मान्यो मानविवर्धनः ॥ १०९ ॥
शत्रुसंहारकः शूरः शुक्रारिः शङ्करार्चितः ।
सर्वाधारः परं ज्योतिः प्राणः प्राणभृदच्युतः ॥ ११० ॥

चन्द्रधामाऽप्रतिद्वन्द्वः परमात्मा सुदुर्गमः ।
विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥ १११ ॥
समस्तजगदाधारो विजेता विक्रमः क्रमः ।
आदिदेवो ध्रुवोऽदृश्यः सात्विकः प्रीतिवर्धनः ॥ ११२ ॥
सर्वलोकाश्रयः सेव्यः सर्वात्मा वंशवर्धनः ।
दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥ ११३ ॥
सद्गतिः सत्वसम्पन्नो नित्यः सङ्कल्पकल्पकः ।
वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥ ११४ ॥
अन्तरिक्षगतिः कल्यः कलिकालुष्यमोचनः ।
सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥ ११५ ॥
शितधारः शिखी रौद्रो भद्रो रुद्रसुपूजितः ।
दरीमुखारिर्जम्भघ्नो वीरहा वासवप्रियः ॥ ११६ ॥
दुस्तरः सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः ।
भूतावासो भूतहन्ता भूतेशो भूतभावनः ॥ ११७ ॥
भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः ।
सर्वदेवमयः कान्तः स्मृतिमान् सर्वपावनः ॥ ११८ ॥
नीतिमान् सर्वजित् सौम्यो महर्षिरपराजितः ।
रुद्राम्बरीषवरदो जितमायः पुरातनः ॥ ११९ ॥
अध्यात्मनिलयो भोक्ता सम्पूर्णः सर्वकामदः ।
सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥ १२० ॥

निरञ्जनो जितप्रांशुः अग्निगर्भोऽग्निगोचरः ।
सर्वजित्सम्भवो विष्णुः पूज्यो मन्त्रविदग्रियः ॥ १२१ ॥
शतावर्तः कलानाथः कालः कालमयो हरिः ।
अरूपो रूपसम्पन्नो विश्वरूपो विरूपकृत् ॥ १२२ ॥
स्वाम्यात्मा समरश्लाघी सुव्रतो विजयान्वितः ।
चण्डघ्नश्चण्डकिरणः चतुरश्चारणप्रियः ॥ १२३ ॥
पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः ।
यज्ञात्मा यज्ञसङ्कल्पो यज्ञकेतुर्महेश्वरः ॥ १२४ ॥
जितारिर्यज्ञनिलयः शरण्यः शकटाकृतिः ।
उत्तमोऽनुत्तमोऽनङ्गः साङ्गः सर्वाङ्गशोभनः ॥ १२५ ॥
कालाग्निः कालनेमिघ्नः कामी कारुण्यसागरः ।
रमानन्दकरो रामो रजनीशान्तरस्थितः ॥ १२६ ॥
संवर्तः समरान्वेषी द्विषत्प्राणपरिग्रहः ।
महाभिमानी सन्धाता सर्वाधीशो महागुरुः ॥ १२७ ॥
सिद्धः सर्वजगद्योनिः सिद्धार्थः सर्वसिद्धिदः ।
चतुर्वेदमयः शास्ता सर्वशास्त्रविशारदः ॥ १२८ ॥
तिरस्कृतार्कतेजस्को भास्कराराधितः शुभः ।
व्यापी विश्वम्भरो व्यग्रः स्वयञ्ज्योतिरनन्तकृत् ॥ १२९ ॥
जयशीलो जयाकाङ्क्षी जातवेदो जयप्रदः ।
कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥ १३० ॥

कुङ्कुमारुणसर्वाङ्गः कमलाक्षः कवीश्वरः ।
सुविक्रमो निष्कलङ्को विष्वक्सेनो विहारकृत् ॥ १३१ ॥
कदम्बासुरविध्वंसी केतनग्रहदाहकः ।
जुगुप्सघ्नस्तीक्ष्णधारो वैकुण्ठभुजवासकृत् ॥ १३२ ॥
सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः ।
सुकृतज्ञो महोदारो दुष्कृतघ्नः सुविग्रहः ॥ १३३ ॥
सर्वाभीष्टप्रदोऽनन्तो नित्यानन्दगुणाकरः ।
चक्री कुन्तधरः खड्गी परश्वथधरोऽग्निभृत् ॥ १३४ ॥
धृताङ्कुशो दण्डधरः शक्तिहस्तः सुशङ्खभृत् ।
धन्वी धृतमहापाशो हली मुसलभूषणः ॥ १३५ ॥
गदायुधधरो वज्री महाशूललसद्भुजः ।
समस्तायुधसम्पूर्णः सुदर्शनमहाप्रभुः ॥ १३६ ॥
ओं सुदर्शनमहाप्रभव ओं नमः ॥
इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
सर्वसिद्धिकरं सर्वयन्त्रमन्त्रात्मकं परम् ॥ १३७ ॥
एतन्नामसहस्रं तु नियमाद्यः पठेत्सुधीः ।
शृणोति वा श्रावयति तस्य सिद्धिः करस्थिता ॥ १३८ ॥
दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् ।
विनाशार्थमिदं देवि हरेरासादितं मया ॥ १३९ ॥
शत्रुसंहारकमिदं सर्वदा जयवर्धनम् ।
जलशैलमहारण्यदुर्गमेषु महापदि ॥ १४० ॥

भयङ्करेषु चापत्सु सम्प्राप्तेषु महत्सु च ।
यः सकृत् पठनं कुर्यात् तस्य नैव भवेद्भयम् ॥ १४१ ॥
ब्रह्मघ्नश्च पशुघ्नश्च मातापितृविनिन्दकः ।
देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥ १४२ ॥
जप्त्वा सकृदिमं स्तोत्रं मुच्यते सर्वकिल्बिषैः ।
तिष्ठन् गच्छन् स्वपन् भुञ्जन् जाग्रन्नपि हसन्नपि ॥ १४३ ॥

[* सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः ।
स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति ॥ *]

आधयो व्याधयः सर्वे रोगा रोगाधिदेवताः ।
शीघ्रं नश्यन्ति ते सर्वे पठनादस्य वै नृणाम् ॥ १४४ ॥
बहुनात्र किमुक्तेन जप्त्वेदं मन्त्रपुष्कलम् ।
यत्र मर्त्यश्चरेत्तत्र रक्षति श्रीसुदर्शनः ॥ १४५ ॥

॥ इति श्रीविहगेश्वर उत्तरखण्डे उमामहेश्वरसंवादे मन्त्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रम् ॥

Click here to watch video of Sri Sudarshana Sahasranama Stotram: